Progress:53.5%
य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जन॑: । तेषां॒ सं ह॑न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥ य आस्ते यश्च चरति यश्च पश्यति नो जनः । तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥
The man who sits, or he who walks, or he who sees us, of these we shut up the eyes, so that they maybe as unconscious as the mansion.
english translation
स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् । तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ॥ सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् । तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥
We put men to sleep through the irresisible might or the bull with a thousand horns, who rises out of the ocean.
english translation
प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः । स्त्रियो॒ याः पुण्य॑गन्धा॒स्ताः सर्वा॑: स्वापयामसि ॥ प्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः । स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि ॥
We put to sleep all those women are lying in the courtyard in litter on the bed, the wom who aredecorated with holiday perfumes.
english translation