राजे॑व॒ हि जनि॑भि॒: क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् । पि॒शा गिरो॑ मघव॒न्गोभि॒रश्वै॑स्त्वाय॒तः शि॑शीहि रा॒ये अ॒स्मान् ॥ राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष्कविः सन् । पिशा गिरो मघवन्गोभिरश्वैस्त्वायतः शिशीहि राये अस्मान् ॥
You dwell with your glories like a rājā with his wives; Maghavan, who are wise and experienced,(reward our) praises with the precious metals, with cows, with horses; conduct us who are dependent on your riches.
english translation
Loading…