Progress:78.4%
तथा चेन्द्रजितो वेश्म ददाह हरियूथपः । जम्बुमाले स्सुमालेश्च ददाह भवनं ततः ॥ ५-५४-११
Thus Hanuman, the chief of the vanaras set fire to Indrajit's residence and then to Jambumali's and Sumali's building. [5-54-11]
english translation
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च । ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ ५-५४-१२
The mansions of other ogres, Rasmiketu, Suryasatru, Hrasvakarna, Vajradamshtra, Romasa - [5-54-12]
english translation
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य रक्षसः । विद्युज्जिह्वस्य घोरस्य तथा हस्तिमुखस्य च ॥ ५-५४-१३
- Yuddhonmatta, Matta, Dhwajagriva the demon, the terrific Vidyujjihva, Hastimukha - [5-54-13]
english translation
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि । कुम्भकर्णस्य भवनं मकराक्षस्य चैव हि ॥ ५-५४-१४
- also those of Karala, Pisacha, Sonitaksha and the mansions of Kumbhakarna, Makaraksha and . - [5-54-14]
english translation
यज्ञशत्रोश्च भवनं ब्रह्मशत्रोस्तथैव च । नरान्तकस्य कुम्भस्य निकुम्भस्य दुरात्मनः ॥ ५-५४-१५
- in the same way the mansions of Yagnasatru, Brahmasatru, Naranthaka, Kumbha, and wicked Nikumbha . - [5-54-15]
english translation