linkstools

Natyashastra

Progress:7.4%

x

दण्डपक्षं तथा चैव भुजङ्गत्रस्तरेचितम् । नूपुरं चैव सम्प्रोक्तं तथा वैशाखरेचितम् ॥ ४१॥

Also the Daṇḍapakṣa, the Bhujaṅgatrāsarecita, the Nūpura, and the Vaiśākharecita are mentioned.

english translation

भ्रमरं चतुरं चैव भुजङ्गाञ्चितमेव च । दण्डरेचितकं चैव तथा वृश्चिककुट्टितम् ॥४२॥

The Bhramara, the Catura, the Bhujaṅgāñcita, the Daṇḍarecita, and the Vṛścikakuṭṭita.

english translation

कटिभ्रान्तं तथा चैव लतावृश्चिकमेव च । छिन्नं च करणं प्रोक्तं तथा वृश्चिकरेचितम् ॥ ४३॥

Kaṭibhrānta, Latāvṛścika, Chinna, and Vṛścikarecita are mentioned as Karaṇas.

english translation

वृश्चिकं व्यंसितं चैव तथा पार्श्वनिकुट्टकम् । ललाटतिलकं क्रान्तं कुञ्चितं चक्रमण्डलम् ॥ ४४॥

Vṛścika, Vyaṃsita, Pārśvanikuṭṭaka, Lalāṭatilaka, Krānta, Kuñcita, and Cakramaṇḍala are described as Karaṇas.

english translation

उरोमण्डलमाक्षिप्तं तथा तलविलासितम् । अर्गलं चाथ विक्षिप्तमावृत्तं दोलपादकम् ॥ ४५॥

The chest-circle, the foot-play, the door-bolt, the scattering, the turning, the swinging of the feet.

english translation