Progress:1.0%
सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ४१ ॥
Purāṇas have five characteristics—creation, subsidiary creation, genealogy, manvantaras and the chronological account of kings, these are described in every Purāṇa.
english translation
दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥ बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ४२ ॥
The sages reckon ten Purāṇas and eight big Purāṇas.
english translation
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥ भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥ ४३ ॥
Brāhma, Pādma, Vaiṣṇava, Śaiva, Bhāgavata, Bhaviṣya. Nāradīya and Mārkaṇḍeya are the eight big Purāṇas.
english translation
आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥ स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥ ४४ ॥
The Āgneyā, Brahma-vaivarta, Laṅga and Vārāha are also mentioned. Skanda Vamana Kaurma Matsya and Garuda.
english translation
ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥ तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ४५ ॥
This is the sacred order of the Purāṇas, namely Brahmāṇḍa and Brahmāṇḍa. There is the fourth Shiva which is the Sharva which accomplishes all purposes.
english translation