Rig Veda

Progress:85.3%

x

आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वम् । मध्व॒: सोम॑स्य पी॒तये॑ ॥ आ मे हवं नासत्याश्विना गच्छतं युवम् । मध्वः सोमस्य पीतये ॥

Nāsatyās, Aśvins, come you to my invocation that you may drink the exhilarating Soma.

english translation

इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हव॑म् । मध्व॒: सोम॑स्य पी॒तये॑ ॥ इमं मे स्तोममश्विनेमं मे शृणुतं हवम् । मध्वः सोमस्य पीतये ॥

Aśvins, hear this my hymn, this my invocation that you may drink the exhilarating Soma.

english translation

अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू । मध्व॒: सोम॑स्य पी॒तये॑ ॥ अयं वां कृष्णो अश्विना हवते वाजिनीवसू । मध्वः सोमस्य पीतये ॥

Kṛṣṇa invokes you, Aśvins rich in sacrifices, that you may drink the exhilarating Soma.

english translation

शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा । मध्व॒: सोम॑स्य पी॒तये॑ ॥ शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा । मध्वः सोमस्य पीतये ॥

Leaders (of all), hear the invocation of Kṛṣṇa, the hymner, who praises you-- that you may drink the exhilarating Soma.

english translation

छ॒र्दिर्य॑न्त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा । मध्व॒: सोम॑स्य पी॒तये॑ ॥ छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा । मध्वः सोमस्य पीतये ॥

Leaders, give to the sage who praises you an unassailable dwelling that you may drink the exhilarating Soma.

english translation