linkstools

Natyashastra

Progress:20.1%

x

स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता । जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः ॥ ४१॥

Glances to be used in the Dominant States are Snigdhā, Hṛṣṭā, Dīnā, Kruddhā, Dṛptā, Bhayānvitā, Jugupsitā and Vismitā.

english translation

शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा । ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा ॥ ४२॥

Glances to be used in the Transitory States such as Śūnyā, Malinā, Śrāntā, Lajjānvitā, Glānā, Śaṅkitā, Viṣaṇṇā, Muktā,

english translation

कुञ्चिता चाभितप्ता च जिह्मा सललिता तथा । वितर्कितार्धमुकुला विभ्रान्ता विलुप्ता तथा ॥ ४३॥

Kuñcitā, Abhitaptā, Jihmā, Lalitā, Vitarkitā, Ardhamukulā, Vibhrāntā, Viplutā,

english translation

आकेकरा विकोशा च त्रस्ता च मदिरा तथा । षट्त्रिंशद् दृष्टयो ह्येता तासु नाट्यं प्रतिष्ठितम् ॥ ४४॥

Ākekarā, Vikośā, Trastā and Madira, make up their number thirty-six.

english translation

अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् । लक्षणं सम्प्रवक्ष्यमि यथाकर्म प्रयोगतः ॥ ४५॥

I shall now explain the characteristics of these Glances in connexion with the various Sentiments and the States, and shall describe their functions.

english translation