Progress:59.8%
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम्॥ आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ २१॥
He crowned Varuṇa in the kingdom of waters; Vaiśravaṇa as the lord of kings; Viṣṇu as the lord of Āditvas and Pāvaka as the lord of Vasus.
english translation
प्रजापतीनां दक्षं तु मरुतामथ वासवम् ॥ दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥ २२॥
He crowned Dakṣa as the lord of patriarchs, Indra as the lord of Maruts, and Prahlāda of great strength as the lord of Daityas and Dānavas.
english translation
वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ॥ मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥ २३ ॥
He crowned Vaivasvata Yama in the kingdom of Pitṛs, Mātṛs, Vratas, Mantras and cows.
english translation
यक्षाणां राक्षसानां च पार्थिवानां तथैव च ॥ सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥ २४॥
He crowned the trident-bearing Śiva, in the kingdom of Yakṣas, Rākṣasas, kings, goblins and ghosts.
english translation
शैलानां हिमवन्तं च नदीनामथ सागरम् ॥ मृगाणामथ शार्दूलं गोवृषं तु गवामपि ॥ २५॥
He crowned Himavat as the lord of mountains, the ocean of rivers, the tiger of deer and Bull as the lord of cows.
english translation