Progress:27.4%
x
यद्यशक्तो जनस्तत्र निरयात्सुपिधाय वै ॥ कर्णौ धीमान् ततश्शुद्ध्येद्वदंतीदं बुधान्वरान् ॥४१॥
If he is not powerful enough let the sensible man close his ears and quit the place—He shall then be pure—so say the learned persons.
english translation
Loading…
ब्रह्मोवाच ॥ इत्थमुक्त्वा धर्मनीतिं पश्चात्तापमवाप सा ॥ अस्मरच्छांकरं वाक्यं दूयमानेन चेतसा ॥४२॥
english translation
Loading…
ततस्संकुद्ध्य सा दक्षं निश्शंकं प्राह तानपि ॥ सर्वान्विष्ण्वादिकान्देवान्मुनीनपि सती ध्रुवम् ॥४३॥
english translation
Loading…
सत्युवाच ॥ तात त्वं निंदकश्शंभोः पश्चात्तापं गमिष्यसि ॥ इह भुक्त्वा महादुःखमंते यास्यसि यातनाम् ॥ ४४ ॥
english translation
Loading…
यस्य लोकेऽप्रियो नास्ति प्रियश्चैव परात्मनः ॥ तस्मिन्नवैरे शर्वेस्मिन् त्वां विना कः प्रतीपकः ॥ ४५ ॥
english translation
Loading…