Progress:49.2%
तदा ते मुनयश्चैव मनुष्याः पशवस्तथा ॥ पक्षिणश्च मृगास्तत्र गताश्चैव दिशो दश ॥ ६ ॥
Then the sages and other men, the beasts, birds and the deer of the forest went to the different quarters.
english translation
तां दृष्ट्वा चर्षयो विप्राः प्राणायामपरायणाः ॥ ध्यानेन च तदा केचित्कालं निन्युस्सुदारुणम् ॥ ७ ॥
english translation
गौतमोऽपि स्वयं तत्र वरुणार्थे तपश्शुभम् ॥ चकार चैव षण्मासं प्राणायामपरायणः ॥ ८ ॥
Gautama himself performed an suspicions penance of Varuṇa for six months engrossed in Prāṇāyāma.
english translation
ततश्च वरुणस्तस्मै वरं दातुं समागताः ॥ प्रसन्नोऽस्मि वरं ब्रूहि ददामि च वचोऽब्रवीत् ॥ ९॥
Then Varuṇa came there to grant him the boon. He said—“I am delighted. Mention the boon you wish to have. I shall grant it.”
english translation
ततश्च गौतमस्तं वै वृष्टिं च प्रार्थयत्तदा ॥ ततस्स वरुणस्तं वै प्रत्युवाच मुनिं द्विजाः ॥ १० ॥
O brahmins, then Gautama requested him for rain. Then Varuṇa replied to the sage.
english translation