Rig Veda
Progress:93.9%
तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् । श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ॥ तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि ॥
We solicit of the divine Savitā enjoyable (wealth) may we receive from Bhaga that which is excellent, all sustaining, destructive of foes.
english translation
अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् । न मि॒नन्ति॑ स्व॒राज्य॑म् ॥ अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् । न मिनन्ति स्वराज्यम् ॥
Nothing impairs the sovereignty of this Savitā, which is most especially renowned and beloved.
english translation
स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भग॑: । तं भा॒गं चि॒त्रमी॑महे ॥ स हि रत्नानि दाशुषे सुवाति सविता भगः । तं भागं चित्रमीमहे ॥
That Savitā who is Bhaga, bestows precious treasure on the donor of the offering; we solicit (of him) a valuable portion.
english translation
अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावी॒: सौभ॑गम् । परा॑ दु॒ष्ष्वप्न्यं॑ सुव ॥ अद्या नो देव सवितः प्रजावत्सावीः सौभगम् । परा दुष्ष्वप्न्यं सुव ॥
Grant us today, divine Savitā affluence with progeny, and drive away evil dreams.
english translation
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव । यद्भ॒द्रं तन्न॒ आ सु॑व ॥ विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न आ सुव ॥
Remove from us, divine Savitā, all misfortunes; bestow upon us that which is good.
english translation