Rig Veda

Progress:65.5%

x

रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पाम् । त आ त॑क्षन्त्वृ॒भवो॑ र॒यिं न॒: स्वव॑स॒: स्वप॑सः सु॒हस्ता॑: ॥ रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् । त आ तक्षन्त्वृभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥

May those Ṛbhus who constructed the firm-abiding wheel-conducting car; who formed the all-impelling multiform cow; they who are the bestowers of food, the doers of great deeds, and dexterous of hand, fabricate our riches.

english translation