linkstools

Natyashastra

Progress:17.0%

x

अथ विभाव इति कस्मात् । उच्यते-विभवो विज्ञानार्थः । विभावः कारणं निमित्तं हेतुरिति पर्यायाः । विभाव्यतेऽनेन वागङ्गसत्त्वाभिनया इत्यतो विभावः । यथा विभावितं विज्ञातमित्यनर्थान्तरम् । अत्र श्लोकः - बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥ ४॥

“Now, why is the word vibhāva used?.” [Answer]: “The word vibhāva is used for the sake of clear knowledge. It is synonymous with kāraṇa, nimitta and hetu. As Words, Gestures and Representation of the Sattva are vibhāvyte (determined) by this, it is called vibhāva (Determinant). Vibhāvita [also] means the same thing as vijñāta (clearly known). On this point there is a Śloka: As many things are vibhāvyate (determined) by this through Words, Gestures and the Representation of the Sattva, it is named vibhāva (Determinant).

english translation