Progress:63.2%
तत्र तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह॥ कुमारश्शांकरिः प्रीतो नानालीलाविशारदः ॥११॥
english translation
तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः ॥ विष्णुना ब्रह्मणा सार्द्धं समाचख्युस्तदागमम्॥१२॥
Then all the gods, sages, Siddhas, Cāraṇas, Viṣṇu and Brahmā announced his arrival.
english translation
तदा दृष्ट्वा च गांगेयं ययौ प्रमुदितश्शिवः । अन्यैस्समेतो हरिणा ब्रह्मणा च सुरर्षिभिः ॥१३॥
Then in order to see him Śiva, along with Viṣṇu, Brahmā, the gods, sages and others went there.
english translation
शंखाश्च बहवो नेदुर्भेरी तूर्याण्यनेकशः ॥ उत्सवस्तु महानासीद्देवानां तुष्टचेतसाम् ॥१४॥
Many conches, Bherīs and Tūryas were sounded. There was great jubilation among the delighted gods.
english translation
तदानीमेव तं सर्वे वीरभद्रादयो गणाः ॥ कुर्वन्तः स्वन्वयुः केलिं नानातालधरस्वराः ॥ १५ ॥
Vīrabhadra and other Gaṇas followed them with different chiming cymbols beating the time and sporting about.
english translation