Rig Veda
अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात् । तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥ अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् । तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः ॥
Maruts, may the energies of that man be enfeebled; may heaven consume that impious adversary who thinks himself superior to us, and who pretends to deprecate the worship that we offer.
english translation