Rig Veda
Progress:49.2%
यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धय॑: । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयः । अयं स सोम इन्द्र ते सुतः पिब ॥
This Soma, in the exhilaration of which it is known that you have subdued Śambara for (the sake of) Divodāsa, is poured out, Indra, for you; drink.
english translation
यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे । अयं स सोम इन्द्र ते सुतः पिब ॥
This Soma, the exhilarating draught of which, when fresh effused (at dawn), or at noon, or at the last (or evening worship), you cherish, is poured out, Indra, for you; drink.
english translation
यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः । अयं स सोम इन्द्र ते सुतः पिब ॥
This Soma, in the exhilaration of which you have liberated the cattle, firm (fastened) within the rock, is poured out, Indra, for you; drink.
english translation
यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शव॑: । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ यस्य मन्दानो अन्धसो माघोनं दधिषे शवः । अयं स सोम इन्द्र ते सुतः पिब ॥
This Soma, exhilarated (by drinking) of which (sacrificial) food you possessed the might of Maghavan, is poured out, Indra, for you; drink.
english translation