Rig Veda
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥ तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः । तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥
Yours Agni, is the office of the Hotā, of the Potā, of the Ṛtvij, of the Neṣṭā; you are the Agnīdhra of the devout; yours is the functionof the Praśāstā; you are the Adhvaryu (adhvaryu radhvarayur adhvaram kāmayata iti vā (Nirukta 1.8) and the Brahmā; and the householder in our dwelling.
english translation