Progress:74.7%
कोलदाडिमवृक्षाम्लचुक्रीकाचुक्रिकारसः । पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति ॥१५१॥
Kola, dadima, vrikshamla, chkrika, chukrika juice of this panchamla can be applied locally in oral cavity to pacify the thirst.
english translation
शीतलान्यन्नपानानि शीतशय्यासनानि [७] च । शीतवातजलस्पर्शाः शीतान्युपवनानि च ॥१५२॥
Cold food and drinks, cool residence, exposure to cool air and water, cool gardens,
english translation
क्षौमपद्मोत्पलानां च मणीनां मौक्तिकस्य च । चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः ॥१५३॥
and the touch of cool linen, hued lotus, water lily, pearl, sandal water, moon beam;
english translation
हेमराजतकांस्यानां पात्राणां शीतवारिभिः । पूर्णानां हिमपूर्णानां दृतीनां पवनाहताः ॥१५४॥
golden, silver, bronze vessels with cold water, breeze, and ice bags;
english translation
संस्पर्शाश्चन्दनार्द्राणां नारीणां च समारुताः । चन्दनानां च मुख्यानां शस्ताः पित्तमदात्यये [८] ॥१५५॥
touch of women bathed with sandal water and cool breeze from sandal trees are advised in paittika madatyaya.
english translation