Progress:75.2%
कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः ॥ नमश्च प्रणवश्चैव मंत्रमेवं सदा बुधाः ॥ २६ ॥
Then say Śivāya (to Śiva). Then repeat “Śubham” twice and “Kuru” twice. Afterwards say “Śivāya Namaḥ Om.”
english translation
अवर्तध्वं पुनर्यूयं यदि शंभुकृते तदा ॥ कोटिमेकं तथा जप्त्वा शिवः कार्यं करिष्यति ॥ २७ ॥
If you repeat this mantra a crore times thinking of Śiva, Śiva will carry out the task.
english translation
इत्युक्ते च तदा तेन हरिणा प्रभविष्णुना ॥ तथा देवाः पुनश्चक्रुर्हरस्याराधनं मुने ॥ २८ ॥
O sage, when this was mentioned by Viṣṇu the powerful, the gods began to propitiate Śiva.
english translation
संजजाप हरिश्चापि सविधिश्शिवमानसः ॥ देवानां कार्यसिद्ध्यर्थं मुनीनां च विशेषतः ॥२९॥
For the fulfilment of the task of the gods and the sages, Viṣṇu and Brahmā, with minds fixed in Śiva performed the Japa.
english translation
मुहुः शिवेति भाषंतो देवा धैर्यसमन्विताः ॥ कोटिसंख्यं तदा कृत्वा स्थितास्ते मुनिसत्तम ॥ 2-5-7-३० ॥
O excellent sage, they stood there steady and repeated the mantra a crore times uttering the name “Śiva” several times.
english translation