Progress:50.8%
पुरा श्रुतं मया स्वामिन्पाण्डवा वै वने स्थिताः । मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा ॥ ३-१६-१६ ॥
O Lord! In days of yore, I heard that the Pāndavas, when they went to the forest, lived in the holy hermitage of the Munis with Draupadī.
english translation
गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते । द्रौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे ॥ ३-१६-१७ ॥
One day the five brethren went a hunting, and the beautiful Draupadī stayed without any fear with other maid servants in the hermitage.
english translation
धौम्योऽत्रिर्गालवः पैलो जावालिर्गौतमो भृगुः । च्यवनश्चात्रिगोत्रश्च कण्वश्चैव जतुः क्रतुः ॥ ३-१६-१८ ॥
Where there was the chanting of the Vedas by Dhaumya, Attri, Gālava, Paila, Jāvāli, Gautama, Bhṛgu, Cyavana, Kanva of the Atrigotra, Jatu, Kratu,
english translation
वीतिहोत्रः सुमन्तुश्च यज्ञदत्तोऽथ वत्सलः । राशासनः कहोडश्च यवक्रीर्यज्ञकृत्क्रतुः ॥ ३-१६-१९ ॥
Vītihotra, Sumantu, Yajñadatt, Vatsala, Rāśāsana, Kahoḍa, Yavakrī, Yajñakrit, Kratu
english translation
एते चान्ये च मुनयो भारद्वाजादयः शुभाः । वेदपाठयुताः सर्वे संस्थिताश्चाश्रमे स्थिताः ॥ ३-१६-२० ॥
And other holy high souled Ṛṣis like Bhāradvāja and others.
english translation